|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.263. अध्यायः 263
Mahabharata - Vana Parva - Chapter Topics
कादाचन शिष्यायुतसहितेन दुर्वाससा दुर्योधनगृहंप्रति गमनम् ॥ 1 ॥ दुर्योधनन स्वपरिचर्यासंतुष्टं तप्रति ब्राह्मणादीनां द्रौपद्याश्च भोजनावसाने भोजनाय पाण्डवान्प्रति गमनप्रार्थना ॥ 2 ॥ दुर्वाससा तस्मै तद्वरदानपूर्वकं पाण्डवान्प्रति प्रस्थानम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
जनमेजय उवाच। 3-263-0x(2644)(26062)
वसत्स्वेवं वने तेषु पाण्डवेषु महात्मसु।
रममाणएषु चित्राबिः कथाभिर्मुनिभिः सह ॥ 3-263-1(26063)
सूर्यदत्ताक्षयान्नेन कृष्णाया भोजनावधि।
ब्राह्मणांस्तर्पमाणेषु ये चान्नार्थमुपागताः।
आरण्यानां मृगाणां च मांसैर्नानाविधैरपि ॥ 3-263-2(26064)
धार्तराष्ट्रा दुरात्मानः सर्वे दुर्योधनादयः।
कथं तेष्वन्ववर्तन्त पापाचारा महामुने ॥ 3-263-3(26065)
दःशासनस्य कर्णस्य शकुनेश्च मते स्थिताः।
एतदाचक्ष्व भगवन्वैशम्पायन पृच्छतः ॥ 3-263-4(26066)
वैशम्पायन उवाच। 3-263-5x(2645)
श्रुत्वा तेषां तथा वृत्तिं नगरे वसतामिव।
दुर्योधनो महाराज तेषु पापमरोचयत् ॥ 3-263-5(26067)
तथा तैर्निकृतिप्रज्ञैः कर्णदुःशासनादिभिः।
नानोपायैरधं तेषु चिन्तयत्सु दुरात्मसु ॥ 3-263-6(26068)
अभ्यागच्छत्स धर्मात्मा तपस्वी कसुमहायशाः।
शिष्यायुतसमोपेतो दुर्वासा नाम कामतः ॥ 3-263-7(26069)
तमागतमभिप्रेक्ष्य मुनिं परमकोपनम्।
सहितो भ्रातृभिः श्रीमानातिथ्येन न्यमन्त्रयत् ॥ 3-263-8(26070)
विधिवत्पूजयामास स्वयं किंकरवत्स्थितः।
अहानि कतिचित्तत्र तस्थौ स मुनिसत्तमः ॥ 3-263-9(26071)
तं च पर्यचरद्राजा दिवारात्रमतन्द्रितः।
दुर्योधनो महाराज शापात्तस्य विशङ्कितः ॥ 3-263-10(26072)
क्षुधितोऽस्मि ददस्वान्नं शीघ्रं मम नराधिप।
इत्युक्त्वा गच्छति स्नातुं प्र्यागच्चति वै चिरात् ॥ 3-263-11(26073)
न भोक्ष्याम्यद्यमे नास्ति क्षुधेत्युक्त्वैत्यदर्शनम्।
अकस्मादेत्य च ब्रूते भोजनयास्मांस्त्वरान्वितः ॥ 3-263-12(26074)
कदाचिच्च निशीथे स उत्थाय निकृतौ स्थितः।
पूर्ववत्कारयित्वाऽन्नं न भुङ्क्ते गर्हयन्स्म सः ॥ 3-263-13(26075)
वर्तमाने तथा तस्मिन्यदा दुर्योधनो नृपः।
विकृतिं नैति न क्रोधं तदा तुष्टोऽभवन्मुनिः ॥ 3-263-14(26076)
आहचैनं दुराधर्षो वरदोऽस्मीति भारत ॥ 3-263-15(26077)
वरं वरय भद्रं ते यत्ते मनसि वर्तते।
मयि प्रीते तु यद्धर्म्यं नालभ्यं विद्यते तव ॥ 3-263-16(26078)
वैशम्पायन उवाच। 3-263-17x(2646)
एतच्छ्रुत्वा वचस्तस्य महर्षेर्भावितात्मनः।
अमन्यत पुनर्जातमात्मानं स सुयोधनः ॥ 3-263-17(26079)
प्रागेव मन्त्रितं चासीत्कर्णदुःशासनादिभिः।
याचनीयं मुनेस्तुष्टादिति निश्चित्य दुर्मतिः ॥ 3-263-18(26080)
अतिहर्षान्वितो राजन्वरमेनमयाचत।
शिष्यैः सह मम ब्रह्मन्यथा जातोऽतिथिर्भवान् ॥ 3-263-19(26081)
अस्मत्कुले महाराजो ज्येष्ठः श्रेष्ठो युधिष्ठिरः।
वने वसति धर्मात्मा भ्रातृभिः परिवारितः।
गुणवाञ्शीलसंपन्नस्तस्य त्वमतिथिर्भव ॥ 3-263-20(26082)
यदा च राजपुत्री सा सुकुमारी यशस्विनी।
भोजयित्वा द्विजान्सर्वान्पतींश्च वरवर्णिनी ॥ 3-263-21(26083)
विश्रान्ता च स्वयं भुक्त्वा सुखासीना भवेद्यदा।
तदा त्वं तत्रगच्छेथा यद्यनुग्राह्यता मयि ॥ 3-263-22(26084)
तथा करिष्ये त्वत्प्रीत्येत्येवमुक्त्वा सुयोधनम्।
दुर्वासा अपिविप्रेन्द्रो यथागतमगात्ततः ॥ 3-263-23(26085)
कृतार्थमपि चात्मानं तदा मेने सुयोधनः।
करेण च करं गृह्य कर्णस्य मुदितो भृशम् ॥ 3-263-24(26086)
कर्णोपि भ्रातृसहितमित्युवाच नृपं मुदा।
दुष्ट्या कामः सुसंवृत्तोदिष्ट्या कौरव वर्धसे।
दिष्ट्या ते शत्रवो मग्ना दुस्तरे व्यसनार्णवे ॥ 3-263-25(26087)
दुर्वासःक्रोधजे वह्नौ पतिताः पाण्डुनन्दनाः।
स्वैरेव ते महापापैर्गता वै दुस्तरं तमः ॥ 3-263-26(26088)
वैशंपायु उवाच। 3-263-27x(2647)
इत्थं ते निकृतिप्रज्ञा राजन्दुर्योधनादयः।
हसन्तः प्रीतमनसो जग्मुः स्वंस्वं निकेतनम् ॥ 3-263-27(26089)
इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि त्रिषष्ट्यधिकद्विशततमोऽध्यायः ॥ 263 ॥
Mahabharata - Vana Parva - Chapter Footnotes
* इतः परं दुर्वासउपाख्यानात्मकमध्यायद्वयं झ. पुस्तकएव दृश्यते। 3-263-6 अध दुःखम् ॥ 3-263-16 धर्म्ये धर्मादनपेतम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|